मुख्यमन्त्री कोविड-19 सङ्क्रान्तिं प्रति प्रभावजन्यनियन्त्रणाय आधिक्येन सम्पर्कानुरेखाङ्कनं कर्तुं निर्दिष्टवान्।

लखनऊ-कानपुरनगर-प्रयागराज-वाराणसी-गोरक्षपुर-मेरठ-जनपदेषु 
विशेषया अवधानं वर्तयितुं निर्देशः दत्तः।


एतेषु जनपदेषु  मुख्यचिकित्साधिकारिणा जिलाप्रशासनेन च 
सह निरन्तरं सम्पर्कं संस्थाप्य प्रभावजन्यप्रक्रिया सञ्चालनीया।
 
कोविड-19 प्रति पूर्णसजगता सतर्कता च वर्तनीया।


कोविड-19  सम्बन्धे शिथिलता न वर्तनीया। तदर्थं 
निरन्तरं जनजागरूकनिमित्तं निर्देशः दत्तः।
 
सार्वजनिकसूचनाकेन्द्रमाध्यमेन कोविड-19, 
अपि च यातायातसुरक्षासम्बन्धे सूचना दातव्या।


कोविड-19नवाचारस्य सामाजिकदुरतायाश्च
पालनं प्रत्येकं परिस्थितौ सुनिश्चेतुं निर्देशः दत्तः। 


महिलानां बालिकानां च सुरक्षां सम्मानं च प्रति राज्यसर्वकारः पूर्णतया प्रतिबद्धः।
 
नवरात्र-अवधौ आरक्षिविभागः महिलानां सुरक्षां
सम्मानं च उद्दिश्य एकम् अभियानं चालयेत्- मुख्यमन्त्री।


ग्राम्यविकास-नगरविकासविभागद्वारा स्वच्छतानिमित्तम् एकं विशेषम् अभियानं चालनीयम्।


धान्यक्रयणकेन्द्राणां पूर्णक्षमतया सक्रियतया सह सञ्चालनं भवेत्।


आकाशीयविद्युता जनिष्यमाणां जनहानिम् अपाकर्तुं 
सन्देशमाध्यमेन सावधानी वर्तनीया इति निर्दिष्टम्।
लखनऊ: 07/10/ 2020
उत्तरप्रदेशस्य उत्तरप्रदेशस्य मुख्यमन्त्री योगि–आदित्यनाथः कोविड-19 सङ्क्रान्तिं प्रति प्रभावजन्य-नियन्त्रणाय आधिक्येन सम्पर्कानुरेखाङ्कनं कर्तुं निर्दिष्टवान् । तेनोक्तं यत् परीक्षणस्य कार्यं पूर्णसामर्थ्यानुगुणं भवेत्। सः लखनऊ-कानपुरनगर-प्रयागराज-वाराणसी-गोरक्षपुर-मेरठ-जनपदेषु  विशेषया अवधानं वर्तयितुं निर्दिशन् उक्तवान् यत् एतेषु जनपदेषु मुख्यचिकित्साधिकारिणा  जिलाप्रशासनेन च सह निरन्तरं सम्पर्कं संस्थाप्य प्रभावजन्या प्रक्रिया सञ्चालनीया ।
मुख्यमन्त्री अद्य  स्वकीये प्रशासनिक-आवासे आहूते एकस्मिन् उच्चस्तरीये उपवेशने अनलॉकव्यवस्थानां समीक्षां कुर्वन्नासीत् । तेनोक्तं यत् राज्ये कोविड-19 सङ्क्रमणे न्यूनता आगता, एषः कश्चन सकारात्मकः सङ्केतः वर्तते। तेन कथितं कोविड-19  सम्बन्धे शिथिलता न वर्तनीया। तदर्थं निरन्तरं जनजागरूकतानिमित्तं पूर्णसजगता सतर्कता च अपेक्षिता । तेन कोविड-19 प्रति सततं जागरूकतानिमित्तम् आकाशवाण्या, दूरदर्शनेन, समाचारपत्रेण सहितं विभिन्नसञ्चारमाध्यमानि उपयोक्तुं निर्दिष्टम् । तेनोक्तं यत् सार्वजनिकसूचनाकेन्द्रमाध्यमेन कोविड-19, अपि च यातायातसुरक्षासम्बन्धे सूचना दातव्या ।
    मुख्यमन्त्रिणा सार्वजनिकस्थलेषु कोविड-19 नवाचारस्य  सामाजिकदूरतायाश्च पालनं सुनिश्चेतुं निर्देशः दत्तः। तेनोक्तं ग्राम्यविकास-नगरविकासविभागद्वारा स्वच्छतानिमित्तम् एकं विशेषम् अभियानं चलनीयम्। तस्मिन् अवधौ कीटनाशक-रसायनस्य सुधाचूर्णस्य च अभिषेचनं सुनिश्चिततया करणीयम्।
    मुख्यमन्त्री कथितवान् यत् महिलानां बालिकानां च  सुरक्षां सम्मानं च प्रति राज्यसर्वकारः पूर्णतया  प्रतिबद्धः वर्तते। तेन नवरात्र-अवधौ आरक्षिविभागेन  महिलानां सुरक्षाम् उद्दिश्य सम्मानदृष्ट्या  च एकम् अभियानं सञ्चालयितुं  निर्देशः दत्तः। तेनोक्तं यद् धान्यक्रयणकेन्द्राणां पूर्णक्षमतया  सक्रियतया सह सञ्चालनं करणीयम्। आकाशीयविद्युता जनिष्यमाणां जनहानिम् अपाकर्तुं सन्देशमाध्यमेन सावधानी वर्तनीया इति निर्दिष्टम्।
     अस्मिन् अवसरे चिकित्साशिक्षामन्त्री श्रीमान् सुरेशखन्ना, स्वास्थ्यमन्त्री जयप्रतापसिंहः, स्वास्थ्यराज्यमन्त्री श्रीमान् अतुलगर्गः, मुख्यसचिवः श्रीमान् आर.के.तिवारी, अवस्थापनायाः औद्योगिकविकासस्य च आयुक्तः श्रीमान् आलोकटण्डनः, कृष्युत्पादनायुक्तः श्रीमान् आलोकसिन्हा, गृहविभागस्य अवरमुख्यसचिवः श्रीमान् अवनीशकुमारअवस्थी, पुलिसमहानिदेशकः श्रीमान् हितेशचन्द्रअवस्थी, सूक्ष्मलघुमध्यम-उद्यममन्त्रालयस्य (एम.एस.एम.ई.) अवरमुख्यसचिवः श्रीमान् नवनीतसहगलः, चिकित्साशिक्षयोः अवरमुख्यसचिवः डॉ रजनीशदुबे, कृषिवभागस्य अवरमुख्यसचिवः श्रीमान् देवेशचतुर्वेदी,  मुख्यमन्त्रिणः प्रमुखसचिवः श्रीमान् सञ्जय प्रसादः, मुख्यमन्त्रिणः अवरमुख्यसचिवः श्रीमान् एस.पी.गोयलः, ग्राम्यविकासपञ्चायतीराजयोः अवरमुख्यसचिवः श्रीमान् मनोजकुमारसिंहः, स्वास्थ्यविभागस्य प्रमुखसचिवः श्रीमान् आलोक कुमारः, सहायकायुक्तः श्रीमान् सञ्जयगोयलः, सूचनानिदेशकः श्रीमान् शिशिरः अन्येऽपि वरिष्ठाधिकारिणश्च  उपस्थिताः आसन् ।
-------------------------


इस ब्लॉग से लोकप्रिय पोस्ट

सबसे बड़ा वेद कौन-सा है ?