कृषकानां सौविध्याय धान्यक्रयण-केन्द्राणि पूर्ण-स क्रयतया कार्यं कुर्यः - मुख्यमन्त्री

लखनऊ: 15/10/2020 मुख्यमन्त्रिणा योगि-आदित्यनाथेन उक्तं यत् कोविड-19 सङ्क्रान्तिं निवारयितुं रक्षणं सतर्कता च अत्यन्तम् अर्प क्षतव्ये। अत एव तत्र कथञ्चित् अपि शिथिलता न वर्तनीया । तेनोक्तं यत् राज्ये कोविड-19 सङ्क्रान्तेः परीक्षण-व्यवस्था निरन्तरं सुदृढा क्रियमाणा अस्ति। यस्य बलेन प्रदेशे एतावत्पर्यन्तं पञ्चविंशतिलक्षाधिक-एककोटिमितानि कोविड-19 परीक्षणानि जातानि। 30/09/2020 पर्यन्तं एषा सङ्ख्या एककोटिमिता आसीत्। अनेन प्रकारेण पञ्चदशदिवसेषु कोविड-19 परीक्षणां सङ्ख्यायां पञ्चविंशतिलक्षमिता वृद्धिः अभवत्। तेन लखनऊ-कानपुरनगर-वाराणसी-जनपदेषु विशेषतया सतर्कतां वर्तयितुं निर्देशः दत्तः


मुख्यमन्त्री अद्य लोकभवने समाहूते एकस्मिन् उच्चस्तरीये उपवेशने अनलॉकव्यवस्थानां समीक्षां कुर्वन् आसीत्।तेनोक्तं यत् कोरोना-पर्यवेक्षण-व्यवस्था इतोऽपि सुदृढा करणीया सः गहनर्चि कत्साविभागे शय्यानां सङ्ख्यां निरन्तरं वर्धयितुं निर्दिष्टवान् । तेन सर्वेषु चिकत्सालयेषु औषधानां चिकत्सासम्बद्धानाम् अर्पे क्षत-सामग्रीनां च उपलब्धताम् अतिरिक्तया सुनिश्चेतुं निर्देशः दत्तः।


मुख्यमन्त्री "प्रधानमन्त्रि-स्वनिधि-योजनायाः" उल्लेखं कुर्वन् उक्तवान् यत् अस्याः योजनायाः अन्तर्गतम् अधिकाधिक-जनाः लाभान्विताः भवेयुः । तेन नगरविकासविभागः राज्यस्तरीय-वित्तकोष-समितिम् (एस0एल0बी0सी0) आह्वातुं निर्दिष्टः। येन जनेभ्यः सहजतया स्वकीय-व्यवसाय-निमित्तम् ऋणं सौविध्यपूर्वकं समुपलब्धुं शक्येत


मुख्यमन्त्रिणा कथितं यत् महिलासुरक्षाम् उद्दिश्य प्रत्येकेषु आर क्षगृहेषु एकं महिलासहायता केन्द्र स्थापनीयम् । राज्यसर्वकारद्वारा सञ्चालितं 'मिशनशक्ति'-अभियानं शारदीयनवरात्रतः वासन्तिकनवरात्र-पर्यन्तं निरन्तरं सञ्चालयिष्यते । महिलानां बालिकानाञ्च सुरक्षायै राज्यसर्वकारस्य इदम् एकं विशिष्टाभियानम् अस्ति। यस्मिन् आरक्षकैः सह अन्येषाम् अपि विभागानां सहयोगः अर्पे क्षतः । राज्यसर्वकारः महिलानां बालिकानाञ्च सुरक्षायै सम्मानाय च प्रतिबद्धः वर्तते । नवरात्र-अवधौ अस्य अभियानस्य प्रभावजन्यक्रियान्वयने विशिष्टतया अवधानं वर्तिष्यते । तेनोक्तं यत् अस्य अभियानस्य अन्तर्गतं महिलानां बालिकानां च कृते आत्मरक्षणं प्रति जागरूकता प्रसारयिष्यते । तेन निर्दिष्टं यत् सर्वैः अपि जिलाधिकारिभिः स्वकीय-जनपदेष 'मिशन-शक्ति'-अभियानं प्रभाविरूपेण सपरिक्षणं सञ्चालनीयम् । तत्तन्नोडलअधिकारिभिः तेषां कार्याणां समीक्षा अपि करणीया।


मुख्यमन्त्रिणा कथितं यत् धान्य-कृषकानां सुविधानिमित्तं धान्यक्रयणकेन्द्राणां कार्य पूर्णसंक्रयतया सञ्चालनीयम् । एतेषु केन्द्रेषु धान्यस्य आर्द्रतां मापयितुं मापकयन्त्राणां व्यवस्था करणीया। येन कृषकानां कृते धान्यं विक्रेतुं काचिद् अपि बाधा न सम्भवेत् ।


अस्मिन् अवसरे चिकत्साशिक्षामन्त्री श्रीमान् सुरेशखन्ना, स्वास्थ्यमन्त्री श्रीमान् जयप्रतापसिंहः, स्वास्थ्यराज्यमन्त्री श्रीमान् अतुलगर्गः, मुख्यसचिवः श्रीमान् आर०के०तिवारी, अवस्थापनायाः औद्योगिकविकासस्य आयुक्तः श्रीमान् आलोकटण्डनः, कृषि-उत्पादनायुक्तः श्रीमान् आलोकसिन्हा, गृहविभागस्य अवरमुख्यसचिवः श्रीमान् अवनीशकुमारअवस्थी,पुलिसमहानिदेशकः श्रीमान् हितेशचन्द्रअवस्थी, राजस्वविभागीयः अवरमुख्यसचिवा श्रीमती रेणुकाकुमार, सूक्ष्मलघुमध्यम-उद्यममन्त्रालयस्य (एम0एस0एम0ई0) सूचनायाश्च अवरमुख्यसचिवः श्रीमान् नवनीतसहगलः, स्वास्थ्यविभागीयः अवरमुख्यसचिवः श्रीमान् अमितमोहनप्रसादः, चिकत्साशिक्षयोः अवरमुख्यसचिवः डॉ रजनीशदुबे, ग्राम्यविकासपञ्चायतीराजयोः अवरमुख्यसचिवः श्रीमान् मनोजकुमारसिंहः, कृषेः अवरमुख्यसचिवः श्रीमान् देवेशचतुर्वेदी, मुख्यमन्त्रिणः अवरमुख्यसचिवः श्रीमान् एस०पी०गोयलः, महिलाकल्याण-बालविकासविभागीया अवरमुख्यसचिवः श्रीमती एस.राधाचौहान, पशुपालनविभागस्य प्रमुखसचिवः श्रीमान् भुवनेशकुमारः, मुख्यमन्त्रिणः सूचनायाश्च प्रमुखसचिवः श्रीमान् सञ्जयप्रसादः, नमगविकासविभागस्य प्रमुखसचिवाः श्रीमान् दीपककुमारः, मुख्यमन्त्रिणः सचिवः श्रीमान् आलोक कुमार, सूचनानिदेशकः श्रीमान् शिशिरः अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्


 


इस ब्लॉग से लोकप्रिय पोस्ट

सबसे बड़ा वेद कौन-सा है ?

कर्नाटक में विगत दिनों हुयी जघन्य जैन आचार्य हत्या पर,देश के नेताओं से आव्हान,